वांछित मन्त्र चुनें

अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः । यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

asmā ū ṣu prabhūtaye varuṇāya marudbhyo rcā viduṣṭarebhyaḥ | yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same ||

पद पाठ

अस्मै । ऊँ॒ इति॑ । सु । प्रऽभू॑तये । वरु॑णाय । म॒रुत्ऽभ्यः॑ । अर्च॑ । वि॒दुःऽत॑रेभ्यः । यः । धी॒ता । मानु॑षाणाम् । प॒श्वः । गाःऽइ॑व । रक्ष॑ति । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.१

ऋग्वेद » मण्डल:8» सूक्त:41» मन्त्र:1 | अष्टक:6» अध्याय:3» वर्ग:26» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:1